________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 198 )
भगवन् देव चित्तं मे जातशङ्काकलसितम् । तदाज्ञां देहि किञ्चित्त्वां पृच्छामि परमेश्वरम् ॥ ततः परशिवेनाहमाज्ञप्तो वद वत्मक । इत्यथाहमुवाचेशं यत्तच्छृणु महेश्वरि ॥ भगवन् करुणासिन्धस्त्वं लोकस्य हिते रतः । किमर्थं लोकमोहाय आज्ञापयसि शङ्कर ॥ अथ देव उवाचेदं पूटण भैरव तत्त्वतः । न मे देष्योऽस्ति न परः प्रियोऽस्ति जगतीतले ॥ उदासीनो ह्यसङ्गोहं शान्तमूर्त्तिरनुत्तरः । मामजानन्त एते वै लोकाः संचितकर्मणाम् ॥ नानाविधानां पाकेन भोगेषु नियतं रताः । तान् मोहयितुमेवैषा मम वामाङ्गसंगता ॥ खातन्त्राशक्तिर्मायाख्या महादुर्घटकारिणी । ममाज्ञारूपमापन्ना ब्रह्मादिषु निविश्य सा ॥ उद्भावयति तन्त्राणि नानाफलयुतानि वै । तेषां कर्मोपभोगाय पुनः पुनरनेकधा ॥ कलिधर्मप्रवृद्ध्यर्थं लोकाः कामपरायणाः । दुष्यूरकामलोभेन हतचित्ता दुराशयाः ॥ विघयाभिमुखास्तब्धाः स्त्रीधनेहाः सदाऽशुभाः ।
आलोक्य तानि तन्त्राणि मोहात् पण्डितमानिनः ॥ मन्मायापहतज्ञाना गुरु हीना गुण्डुहः । तत्तत्तन्त्रसदंशेषु मोहेनान्धीकृता जडाः ॥ असदंशेष्वेव जनाः प्रसत्ताः कामनापराः । तदाशयमविज्ञाय मूढास्तत्कम्मसंरताः ॥ अन्ते तत्कम्मपाकेन विकृता बहुधा नराः । अन्धं तमो विशन्त्येते सर्व एवात्र मानवाः ॥
For Private and Personal Use Only