________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( 176 )
नारदादीनगस्त्यादीन् वामाचारस्थितान् मुनौन् । वशिष्ठादीन् मुनिवरान् दक्षिणाचारदीक्षितान् ॥ नमामि परमानं[द] मतस्थान् ऋषियुंगवान् । मतानि च बहून्यत्र तामसादिप्रभेदतः ॥ वेदाप्रामाण्यवादीनि तन्मतस्था नराः क्वचित् । तमोमुख्यानि तेष्वेव नास्तिकानां मतानि च ॥ कुर्व्वतचैव धर्मं स्वं यथोक्तं मत भावितं । कचिज्जन्मनि ते यान्ति वेदप्रामाण्यवादिषु ॥ जैमिन्याद्यास्तिकानां च राजसेषु मतेषु च । तत्रापि पुण्यपुञ्जानां सम्पाद्यादीन् प्रयत्नतः ॥ परानन्दमते चास्मिन् सर्वोत्कृष्टोत्तमे शुभे ।
परानन्दमतं वक्ष्ये त्रैलोक्येपि सुदुर्लभं । परमात्मा चेश्वरश्चेति जीवश्चेति पृथक् पृथक् ॥ १ ॥ नित्यानन्दः सुरूपौ च दिव्यश्वेश्वरभावितः । ईश्वराणां खभक्तानां निग्रहानुग्रहक्षमः ॥ २ ॥
इति उपोद्द्वातप्रकरणम् ॥
तस्य लोको महान् दिव्यः परमानन्दसंज्ञकः । यत्र गत्वा न यात्यत्र पुनः संसारमण्डले ॥ ३ ॥ मुक्ताश्च चेश्वरा यत्र रमन्ते च यथासुखं । यत्र ध्यानासक्तचित्ता निर्देश्यश्रिया युताः ॥ ४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति परात्मवर्णनम् ।
For Private and Personal Use Only
इति परमानन्दलोकवनम् ॥
ज्ञानवान् पुरुषोयं कर्त्ता सकलकणां । मनसा च समायुक्तः तत्तदिन्द्रियसौख्यष्टक् ॥ ५ ॥ पापं कुर्व्वन् नरकगः पुण्यं कुर्व्वन् हि स्वर्गगः । कुर्व्वन्त्युपासनामैश तत्तदीशस्य लोकगः ॥ ६ ॥ एतेन लक्षणेनैव युक्तजीवाद्यसंख्यकाः ।
इति जौवलक्षणम् ॥