________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 8 )
Patala VIII (Fol. 45B):-- देव्यवाच ।
चिन्मयानन्दविज्ञानगगनाय महात्मने । नमस्त्रिशूलहस्ताय पशूनां पतये नमः ॥ कथितं मतभेदास्ते सप्तसंख्या त्वयानघ । वीर-शैवमतं तत्र विशेषेणाभिवर्णितम् ॥ वीरत्वं नाम भगवन् विज्ञेयं तु कथं मया । प्रविश्य वौर-शेवै तु किं वा कायं हि लिङ्गिनाम् ॥ भक्त्या मताश्रयं कृत्वा वैराग्यशिथिलेन्द्रियः । पुनरागत्य विषयान् कां गतिं++गच्छति ॥ एतत् क्रमेण विश्वेश वद विस्तरतो मम ।
तारतम्येन यत् प्राप्यं प्रकृत्यागच्छ वाहरत् (?) ॥ Patala IX (Fol. 51B):-- देव्युवाच ।
नमश्चैतन्यरूपाय नमः पञ्चमुखाय ते ।
वद विस्तरतो देव वीरशैवस्य विक्रमम् ॥ Fol. 53A refers to some of the characteristics of the school
वीर-शैवमतं प्राप्य यः कुर्यात् प्राणहिंसनं । कर्मणा मनसा वाचा स वसेद्रौरवे चिरम् ॥ वीर-शैवमतं प्राप्य यः कुर्यात् परपीडनं । भोगार्थं संग्रहं मद्यं मांसं स्त्रौं च कलं जनं ॥ स्वर्णस्तेयं दिवानिद्रां सर्वदैवान्नभोजनं । प्राकृतैः सह सङ्गञ्च सङ्गत्यागच लिङ्गिनां ॥ स कोटिजन्मसु श्वान चाण्डालो भुवि जायते । वाहनं जनसङ्गच्च स्त्रीकथा लौल्यमेव च । अनाधरं तथालस्यं वीरशैवो न कारयेत् ॥
For Private and Personal Use Only