________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(
130
)
शब्दार्थं नैव जानामि पदवाक्यप्रमाणतः । भ्रान्तबुद्धिरहं देव भ्रामिता + + शासने ॥ केनोपायेन देवेश ज्ञातव्यं सर्वरूपतः । येनेदं ज्ञायते सत्यं दम्भशायविवर्जितम् ॥ नन्दि(क)स्कन्दकुमाराद्यैनंगिना योगिनौकुलैः। मुनिभिर्ब्रह्म + + + सूर्यचन्द्रमसादिभिः ॥ कथितं परमं ज्ञानं न स्थानं त्रिविधं मम । तदादिकं यदस्तीति वद मे सुरनायक ॥ नित्यभक्ता त्वहं देव कम्मणा मनसा गिरा। प्रसादं कुरु संक्षेपादाक्षेपायेन मुच्यते ॥ आयासरहितं ज्ञानं प्राणायामविवर्जितम् । धारणाध्याननिर्मुक्तं योगतत्त्वविवर्जितम् ॥ ब्रह्मयज्ञक्रियाहीनं निष्कियं तीर्थवर्जितम् ।
प्रसन्नात्मं जगन्नाथ वदैतद्भक्तवत्सलम् ॥ 9B, श्रीभैरव उवाच ।
कथयामि यथातथ्यं कपटज्ञानवर्जितम् । भ्रमभ्रान्तिं परित्यज्य ग्राहयेत् परमं पदम् ॥ धानान्तकरणैर्मुक्तं स्नानपंचदिकैरपि(?) । चिन्तया रहितं चित्तं निश्चितं परमं पदम् ॥ कुम्भपूरकरेचाद्यैः प्रशान्तपवनैः सह । दशवायोः सुन्दानि दशसाहसिका[णि] च ॥ प्रत्येकं च सहसात्मा प्राणाद्याश्च धनञ्जयः । दशसाहस्रनाद्य संस्थितं कुलमध्यगम् ॥ वायुद्धन्दं परित्यज्य तत्त्वरन्दं तथैव च । मन्त्रजालं महादुर्ग क्रियाजालं परित्यज्य ॥ शास्त्रजालमनेकार्थं त्यज सव्वं पलालवत् ।
For Private and Personal Use Only