________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( 100 )
यथाविधि समाभूतोच्चाविंश्येटचरे स्थितः । अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिता ॥
आराधनोपयोगानि संपाद्य तदनन्तरम् । ब्रह्मरन्ध्र जगन्नाथं ब्रह्मानन्दमयं विभुम् ॥ परम्पराक्रमेणैव गन्धपुष्याक्षतादिभिः । चिरंध्यात्वा ततो देवि भूतशुद्धिं यथाविधि ॥ ऋषिन्यासादिकं कुर्यात् प्रसन्नात्मा यथाविधि । सर्वकार्य्यार्थसिद्ध्यै च सर्वविघ्ननिवृत्तये ॥
पञ्चाङ्गैरेकविंशेन यजेद्वैनायकं पुरा ॥ Colophons of the different chapters :
2B, इति श्रीमहाशैवतन्त्रे अतिरहस्ये आकाशभैरवकल्ये प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करेण विरचिते उत्साहप्रक्रमो नाम प्रथमोऽध्यायः ; 3B, इति महाशैवमन्त्रे अतिरहस्ये पक्षिराजकल्ये उत्साहगणपतियजनविधिर्नाम द्वितीयोऽध्यायः ; 4B, इति श्रीमहाशैवतन्त्रे अतिरहस्ये उत्साहभैरवयजनविधिर्नाम टतीयोऽध्यायः; 6A, इति श्रीमहाशैवतन्त्र अतिरहस्ये उत्साहाभिषेकविधानं नाम चतुर्थोऽध्यायः ; 7B, आकाशभैरवकल्पे मन्त्रयन्त्रं नाम पञ्चमोऽध्यायः ; 8B, इति श्रीशैवतन्वे अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षमिद्धिप्रदे चित्रमालाविधिर्नाम षष्ठोऽध्यायः; 9A, इति श्रीमहाशैवतन्त्रे अतिरहस्ये
आकाशभैरवकल्पे वश्याकर्षणप्रयोगो नाम सप्तमोऽध्यायः ; 9B, रहस्ये मोहनद्रवकप्रयोगो नाम अष्ठमोऽध्यायः ; 10A, इति श्रीशैवतन्त्र अतिरहस्ये आकाशभैरवकल्पे स्तम्भन-विद्वेषणप्रयोगो नाम नवमोऽध्यायः ; 10B, इति श्रीमहाशैवतन्त्र अतिरहस्ये उच्चाटननिग्रहप्रयोगो नाम दशमोऽध्यायः ; 11A, इति श्रीमहाशैवतन्त्र अतिरहस्ये आकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे शङ्करण विरचिते भोगमोक्षप्रकरणं नाम एकादशोऽध्यायः । इति प्रथमकल्पः समाप्तः॥
For Private and Personal Use Only