________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
229
I. M. 10549. प्रबोधचन्द्रिका Prabodha-candrika Substance : Country-made paper. Size : 12 x 41 inches. Folios 1-13. Lines 12. Extent ingranthas:429. Script: Nagara. Appearance : Fair. Complete. Date : Sam 1869.
Beginning :
हरिहरगुरुभक्तः सर्वलोकानुरक्तस्त्रिभुवनगतकीर्तिः कान्तकन्दर्पमूर्तिः। रणरिपुगणकालो बैजलक्षोणिपालो जयति भार...दाता सर्वकर्मावधाता ॥१॥ चन्द्रावतीवदनचन्द्रचकोर-विक्रमादित्यभूपतनयो नयतन्त्रवेत्ता । चौहानवंशतिलकः पटनाधिनाथो
राजापरं जयति वैज(ल)देवनामा ॥२॥ रामो मेऽभिहितं करोतु सततं रामं भजे सादर रामेणापहृतं समस्तदुरितं रामाय दत्तं धनुः । रामान्मुक्तिरभिप्सीता सरभसं रामस्य दासोऽस्म्यह रामे रक्षतु मे मनः करुणया भो राम मां पालय ॥३॥ श्रीमदुबैजलदेवेन रामभक्तिरतात्मना । इति चिन्तितमेकान्ते कदाचित् तिष्ठता सता ॥ अस्थि वज्र(सम) यस्य यस्य चर्म च धर्मवत् । स दधीचिः स कर्णो वा नातिष्ठत् सुचिरं भुवि ॥ न संप्रति शरीराणि न राज्यानि धनानि च । तेषां स्वर्गगतानां च कीर्त्तिर्जागर्ति भूतले ॥६॥ पद्मिनीपत्नजलवत् संसारे सर्वमस्थिरम् । कीर्त्तिरक्षरसंबद्धा स्थिरा भवति भूतले ॥७॥ इह लोके सुखं येन परलोकेऽपि जायते । तदेव प्रत्यहं कर्म कर्त्तव्यं दूरदर्शिना ॥
[ 143 ]
For Private and Personal Use Only