________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
44 'ईश्वरप्रणिधानाद्वा" इति पातञ्जलयोगसूत्रव्याख्याने श्रीसदाशिवेन्द्र सरखतीपादैरपि अयमेव भावो दृढीकृतः । यथा -
तथा च श्रुतिः
44
" ईश्वरो हि समाराधनादिना साधनेन आराधितः इदमस्येष्टमस्तु इति संसाराङ्गारे तप्यमानं पुरुषमनुगृह्णातीति भावः ॥ " इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
46
'मुमुक्षुर्वे शरणमहं प्रपद्ये "
44
' तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् "
इति ॥
aa विष्णोः परब्रह्मत्वावबोधकानि त्रिपाद्विभूतिनारायणोप निषद्वाक्यानि निदर्शनार्थमुदाह्रियन्ते ॥
यथा
" कारणात्मकं सर्व कार्यात्मकं सकलं नारायणः । तदुभयविलक्षणो नारायणः । परञ्ज्योतिः स्वप्रकाशमयो ब्रह्मानन्दमयो नित्यो निर्विकल्पो निरञ्जनो निराख्यातः शुद्धो देव एको नारायणो न द्वितीयोऽस्ति कश्चित् । न स समानाधिक इत्यसंशयं परमार्थतो य एवं वेद | सकलबन्धान् छित्त्वा मृत्युं तीर्त्वा स मुक्तो भवति स मुक्तो भवति । " इति ॥
एवं गणेशादीनामपि परब्रह्मत्वाववोधिका बहुय उपनिषदो विद्यन्त एवेति ज्ञायते ॥
For Private and Personal Use Only