________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
योगसारे यथा --
" एवं वै गणनाथश्च पुरुषश्च परश्शिवः । शक्तिर्नारायणश्चैव ज्योतीरूपसमन्विताः ॥
ब्रह्मत्वेनैव प्रोच्यन्ते वेदादिष्वपि पसु च । पञ्चभ्यश्चैव प्रोच्यन्ते सृष्टिस्तु कालभेदतः ।
एकमेव परं ब्रह्म पञ्चधा परिकीर्तितम् ॥” इति ।।
श्रीमदप्पय्यदीक्षितेन्द्रैरपि शैवाद्वैतबोधकश्रीकण्ठभाष्यव्याख्याने अयमेव भाव आविष्कृतः ॥ यथा --
“ यद्यप्यद्वैत एव श्रुतिशिखरगिरामागमानाञ्च निष्ठा
साकं सर्वैः पुराणश्रुतिनिकरमहाभारतादिप्रबन्धैः । तत्रैव ब्रह्मसूत्राण्यपि च विमृशतां भान्ति विश्रान्तिमन्ति
प्रनैराचार्यरतैरपि परिजगृहे शङ्कराद्यैस्तदेव ॥
तथाप्यनुग्रहादेव तरुणेन्दुशिखामणः । अद्वैतवासना पुंसामाविर्भवति नान्यथा ॥
अनुग्रहश्च देवस्य देव्या चिद्रूपया सह । यथावत्तं परिज्ञाय ध्यायद्भिस्समवाप्यते ॥” इति ।।
अत्र दीक्षितेन्द्रः ब्रह्मज्ञानावाप्यै न केवलं परमेश्वरानुग्रहमानं विवक्षितम् , अपि तु पराशक्त्यनुग्रहोऽपि विवक्षित एव ॥
For Private and Personal Use Only