________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5996
A DESCRIPTIVE CATALOGU3 or
thas-4000.
Author-Venkaticārya.
Complete.
Not
printed.
Beginning:
ॐ नमो वासुदेवाय ॥ समुद्यत्कस्तूरीतिलकसमुदञ्चन्मुखलचं
किरीटप्रागरस्यस्फुरितपरमैश्चर्यविभवम् । रमापादाम्भोजद्वितयगतलाभारसलस.
अजामध्यं नित्यं मनसि कलये. रङ्गनिलयम् ॥
प्रपब्चितं भगवत्कारणत्वमसहमानस्य परस्य प्रक्रिया निराक्रियते । यदाह कश्चित् न विष्णोः परमकारणत्वं सिद्ध्यतीति । विष्णोरपि जनकभूतस्य परमशिवस्य सर्वै. श्वर्यमुमुक्षूपास्यत्वकारणत्वप्रतीतः । तथा हि । अथर्वशिखायो ‘किं तदयान को वाध्याता कधिद्धयेयः' इति उपक्रमस्य प्रश्नत्रयानुरोधेन ध्यानध्यातनिरूपणानन्तरं ध्येयनिर्धारणार्थमिदमाम्नायते । “ध्यायीतेशानं प्रध्यापि. तव्यं सर्वमिदं ब्रह्म विष्णु x x
शिव एको ध्येयः शिवंकरः सर्वमन्यत्परित्यज्य समस्ता शिखा" इत्यन्तम् । अत्र योगरूढ्या परमशिवे वर्तमानस्य ईशानशब्दस्य ताच्छील्यार्थे च न शक्ततया योगेन स्वाभाविकैश्चर्यपरत्वाल्या परमशिववाचिस्वाच सर्वोत्कृष्टफलार्थिभिः सर्वातिशाय्यैश्वर्यः परमशिवो ध्या
For Private and Personal Use Only