SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6322 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF आक्षेपोक्तिसमाधानं व्याख्यानं पञ्चलक्षणम् ॥” इति । तत्र प्रथमग्रन्थादमीष्टदेवतानमस्कारस्य वस्तुनिर्देशस्य च वक्तव्यतयाऽयं संग्रहकारस्तादर्थ्येन स्वायंभुवसूत्रं प्रथमं गृह्णाति । ॥ मू ॥ शिवं प्रणम्य परमं निधनेशमतः परम् । ज्ञानदीक्षे प्रवक्ष्यामि ते शृणुध्वं समाहिताः । End: इत्थं पतिपशुपाशस्वरूपनिरूपणद्वारेणात्मनः केवलसकलशुद्धावस्थात्रयं प्रतिपाद्य कस्यास्य ज्ञानशास्त्रस्याधिकार्यनधिकारिविवेकं निश्वास कारिकायां प्रदर्शयति । 'प्रकटयस्वेदं ज्ञानं मद्भक्तानां वरानने । रक्षणीयं प्रयत्नेन तस्करेभ्यो धनं यथा ॥' इति · हे वरानने देवी संबोधनमेतत् इदं ज्ञानं ज्ञायन्ते पत्यादयोऽनेनेति । ज्ञानं शास्त्रं । तथा वायव्ये । 'ज्ञानं वस्तुपरिच्छेदो वस्तु च त्रिविधं स्मृतम्' इति । मद्भक्तानां मद्भजनवतां प्रकटयस्व प्रकाशय ॥ दयाशान्तियुक्तानां देवाग्निगुरुभक्तानामस्मिन् ज्ञान शास्त्रे अधिकार इत्यर्थः । तथा तत्तन्त्रे । " देयं शान्ताय दान्ताय शिवभक्तिरताय च । शिववन्मन्यते यस्तु आचार्य तत्त्रपारगम् ॥” शिवानुरुतरी भक्तिर्यथा नित्यं गुरोः सदा । For Private and Personal Use Only
SR No.020241
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 16
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1932
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy