________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANSKRIT MANUBORIPTA
6821
श्रीदेविकालोत्तरविश्वसारं
ज्ञानोत्तरं वीक्ष्य दशापि चैकम् । साराणि सूत्राणि शतं गृहीत्वा
चकार बन्धं शतरत्नरूपम् ।। कर्णभूषणयोग्यानामागमज्ञान शालिनाम् । अमीषा शतरत्नानामुल्लेखः क्रियते मया ॥
एषाश्च सूत्राणां रत्नत्वं राजसानुक्तिमुक्तिरागोत्पादकत्वात् इष्टविधानाच्च । यथा रत्नत्रये'राजसात्सर्वतत्त्वेषु रागादिभ्योऽधिकारयोः। रत्नानीष्टविधानाच बिन्द्वाद्याश्शिवशासने ॥” इति
इह जगति कलिकालावेशात् आगमार्थे लुप्से, पापण्डमताभिवृद्धौ सत्यां, गुरुशिष्यक्रमे च संकीर्णे स्वशिष्यान. नुग्रहीतुकामः परमकारुणिकोमापतिशिवाचार्यस्तावदखिलागमज्ञानकाण्डसारभूत संसारपाशसंतानितानां पशूनां पशुत्वनिवृचिशिवत्वाभिव्यक्तिहेतुज्ञानदीक्षास्वरूपविवेच • कसिद्धान्तनिर्णय सूत्ररत्नशतं सञ्जग्राह । तस्य संग्रहस्य सद्योज्योतिपादरामकण्ठनारायणाघोरशिवादिव्याख्यानुसारेणास्मद्गुरुसंप्रदायानुसारेण च व्याख्या क्रियते।
सा च व्याख्या पञ्चलक्षणात्मिका । तथा लक्षणसंग्रहे ।। " पदच्छेदः पदार्थोक्तिविग्रहो वाक्ययोजना।
For Private and Personal Use Only