________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5929
A DISCRITTIV. OATALOUU) 03
कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन, तद्विज्ञानार्थ स गुरुमेवामिगच्छेत् संमित्प्राणिः श्रोत्रियं ब्रह्मनिष्ठम्' इति श्रुतिः । कर्मणा चितान् संपादितान् चतुर्दश लोकान् लोकस्थान् जनान् परीक्ष्य अनित्यत्वेन निश्चित्य ब्राह्मणः ब्रह्मसाक्षात्कारकामा निर्वेदं वैराग्यम् आयात् प्राप्नुयात् । अकृतो मोक्षः कृतेन कर्मणा नास्ति न संपद्यते । तस्मात्कारमान तद्विज्ञानार्थ ब्रह्मज्ञानार्थं श्रोत्रियं सावेदाध्ययनवन्तं ब्रह्म निष्ठं ब्रह्मसाक्षात्कारचन्तं गुरुं समित्पाणिः यथा. योग्यं समिहन्तकाष्ठादिपाणिः सन् अभिगच्छेत् एता.
शगुरुनिकटं प्राप्नुयादित्यर्थः । 'शान्तो दान्तः उपरत. स्तितिक्षुः श्रद्धावितो भूत्वा आत्मन्येवात्मानं पश्येत् ।' शान्तः अन्तरिन्द्रियपनोनिग्रहवान् दान्तः बहिरिन्द्रियच. क्षुरादिनिग्रहवान् उपरतः सकलविषयाभिलापरहितः तितिक्षुः शीतोष्णसुखदुःखमानावमानादिद्वन्द्वसहिष्णुः ब्रह्मविषयिणी अद्धैव वित्तं यस्य सः एवंविधविशेषणविशिष्टो भूत्वा आत्मनि विशुद्धान्त:करणे प्रतिविम्बितम् आत्मानं परमात्मानं साक्षात्कुर्यादित्यर्थः । मुमुक्षुत्वं मोक्षच्छा।
इत्यात्मनि साधनचतुष्टयसंपत्तिः
समाप्ता ।
For Private and Personal Use Only