________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5921
BANSKRIT MANUSCRIPTOR स्थूलं सूक्ष्मे च तद्वीजे मात्राभिः प्रविलापयेत् । कारणं चोंकृतरोतायात्मना चिन्तयन्यसेत् ॥ १६ ॥ य इत्थं प्रणवस्यार्थ गुरोर्ज्ञात्वा यतिभवेत् । स्वात्मनिष्ठः स मुक्तः स्यादत्रैवानन्दवारिधिः॥१७॥
हरिः ॐ ॥ ऐरावतेश्वराय नमः
श्रीविश्वनाथाय नमः॥
॥ साधनचतुष्टयसंपत्तिः ।। 7759. SADHANACATUSTAYASAMPATTIA.
अथशब्दार्थः साधनचतुष्टयमुच्यते नित्यानित्यवस्तुविवेक इहामुत्रार्थफलभोगविरागः शमदपादिसंपतिर्मुमुक्षुत्वं चेति । ब्रह्म नित्यं सकलं जगदनित्यमिति नित्यानित्यवस्तुविवेकः । तद्यथेह कर्मचितो लोक: क्षीयते एवमेवापुत्र पुण्यचितो लोकः क्षीयते' इति श्रुतिः । यथा इह भूलोके कर्मणा चितः संपादितः पुत्रमित्रकलत्रादिलक्षणो लोकः जनः क्षीयते नश्यति एवमेवामुत्र स्वर्गादिलोकेष्वपि पुण्येन चितः संपादितः लोकः जनः क्षीयत इति तदर्थः । 'परीक्ष्य लोकान्
742
For Private and Personal Use Only