________________
Shri Mahavir Jain Aradhana Kendra
5910
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
दिवारात्री न जानाति दारपुत्रादिकं समम् । दयातोष मृदु भाष्यं जीवन्मुक्तः स उच्यते ॥ ८ ॥ कामना कार्यनिर्दोषः कार्याकार्यव्यवस्थितः । स्वहितात्मनि संतुष्टो जीवन्मुक्तः स उच्यते ॥ ९ ॥
गुणदोषापरिच्छिन्नो गुणागुणपरीक्षकः । गुणत्रयविहीन जीवन्मुक्तः स उच्यते ॥ १० ॥
संतुष्टसकलारस्थो सदानन्दसुखात्मकः । सर्वलोकप्रियं भाष्यं जीवन्मुक्तः स उच्यते ॥ ११ ॥ पूर्णानन्दोऽहमस्मीति पूर्णानन्दोऽस्मि सर्वदा । पूर्णापूर्णतरं येन जीवन्मुक्तः स उच्यते ॥ १२ ॥
जाग्रत्वममिव साक्षी साक्षी देदचतुष्टयम् । सर्वसाक्षी निरालम्बो जीवन्मुक्तः स उच्यते ॥ १३ ॥
एकात्मभावनादेव यदि भावं न हि न हि । लोकान्तश्चैवमेकान्तो जीवन्मुक्तः स उच्यते ॥ १४ ॥
शान्तिवृद्धी क्षमा पूर्णशान्तिर्दान्तिर्मुहुर्मुहुः । भक्तिभावं परित्यज्य जीवन्मुक्तः स उच्यते ॥ १५ ॥
आनन्दमखिलं सर्वमानन्देति चिदात्मकम् । आनन्दं परमानन्दो जीवन्मुक्तः स उच्यते ॥ १६ ॥
तत्पदस्य तदात्मानं त्वंपदस्य चिदात्मकम् । असिपदे सदा मनं जीवन्मुक्तः स उच्यते ॥ १७ ॥
For Private and Personal Use Only