________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ जीवन्मुक्तलक्षणम् ॥
7753. JIVANMUKTALAKSANAM.
श्रीगणेशाय नमः ॥
जीवः शिवसमायुक्तो ज्ञानाज्ञानसमासमः । एकाने कसमचैव जीवन्मुक्तः स उच्यते ॥ १ ॥
एकं ब्रह्म जगत्सर्वमखण्डं भासते सदा । अनादि भान्ति भूतानि जीवन्मुक्तः स उच्यते ॥ २ ॥
एकधा बहुधा चैव दृश्यते जलचन्द्रवत् । आत्मवत्सर्वमेकं तु जीवन्मुक्तः स उच्यते ॥ ३ ॥
सर्वभूतसमं ब्रह्म भेदोऽभेदो न विद्यते । एकमेवाधिपश्यन्ति जीवन्मुक्तः स उच्यते ॥ ४ ॥
कर्माकर्म न पश्यन्ति सर्वकर्मविमोचकम् । निष्कर्म कर्म कर्तारं जीवन्मुक्तः स उच्यते ॥ ५ ॥
लोभमोहपरित्यक्त आशापाशविवर्जितः । सुखं दुःखं न जानाति जीवन्मुक्तः स उच्यते ॥ ६ ॥
कर्मयुक्तः क्रियामुक्तो नित्यमुक्तश्चिदात्मकः । कायमायापरित्यक्तो जीवन्मुक्तः स उच्यते ॥ ७ ॥
For Private and Personal Use Only