SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org SANSKRIT MANUSCRIPTS प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः । यदा प्रकाशते विश्वं तदाहं भास एव हि ॥ ८ ॥ अहो विकल्पितं विश्वमज्ञानान्मयि भासते । रूप्यं शुक्त फणी हारे वारि सूर्यकरे तथा ॥ ९॥ मत्तो विनिर्गतं विश्वं मय्येव लयमेति हि । मृदि कुम्भो जले वीचिः कनके कटको यथा ॥ १० ॥ अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे । ब्रह्मादिस्तम्बपर्यन्तजगन्नाशेऽपि तिष्ठतः ।। ११ ।। अहो अहं नमो मामेकोऽहं देहवानपि । कचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ॥ १२ ॥ अहो अहं नमो मह्यं दक्षोऽहं नास्ति मत्समः । असंस्पृष्टशरीरेण येन विश्वं चिरं धृतम् ॥ १३ ॥ Acharya Shri Kailassagarsuri Gyanmandir अहो अहं नमो मह्यं यस्य मे नास्ति किंचन । अथ वा यस्य मे सर्वे यद्वाज्ञानस्य गोचरः ॥ १४ ॥ हानं देयं तथा हाता त्रितयं नास्ति वास्तवम् । अज्ञानाद्भाति यत्रेदं सोऽहमस्मि निरञ्जनः ।। १५ ।। द्वैतमूलमहो दुःखं नान्यत्तस्यास्ति भेषजम् । दृश्यमेतन्मृषा सर्वमेकोऽहं चिद्रसोऽमलः ॥ १६ ॥ बोधमात्रोऽहमज्ञानादुपाधिः कल्पितो मयि । एवं विमृशतो नित्यं निर्विकल्पस्थितं मम ॥ १७ ॥ For Private and Personal Use Only 5907
SR No.020238
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 13
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1931
Total Pages500
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy