________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ अनुभवपञ्चविंशतिः ॥
7751 & 7752. ANUBHAVAPANCAVIMSATIR.
॥ श्रीमहादेवाय नमः ॥ अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः। एतावन्तमहं कालमहंमोहविडम्बितः ।। १ ।। यथा प्रकाशयत्येको देही देहं जगत्तथा। अतो मम जगत्सर्वम भवन्न च किंचन ॥२॥
सशरीरमहो विश्वं परित्यज्य मयाधुना। कुतश्चित्कौशलादेव परमात्मावलोक्यते ॥३॥
यथा न तोयतो भिन्नास्तरङ्गाः फेनबुद्धदाः। आत्मनो न तथा भिन्नं विश्वात्मनि विनिर्गतम् ॥ ४ ॥ तन्तुमात्रो भवेदेव पटो यद्विचारितः। आत्मतन्मात्रमेवेदं तद्वद्विश्वं विचारितम् ॥ ५ ॥ यथैवेक्षुरसोक्षिप्ता तेन व्याप्ता न शर्करा । तथा विश्वं मयि क्षिप्तं मया व्याप्तं निरन्तरम् ।। ६ ॥ आत्माज्ञानाजगद्धान्तिरात्मज्ञानान भासते। रज्ज्वज्ञानादहिभ्रान्तिस्तज्ज्ञानादासते न हि ।। ७ ।।
For Private and Personal Use Only