________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8890
A DESCRIPTIVE CATALOGUE OF निगमशिरःप्रतिपाद्यं निरवधिचैतन्यमद्वयानन्दम् । देशिकवरेशकृपया ब्रह्मैवास्मीति सर्वतः सिद्धम् ॥ २४ ॥ अहं ब्रह्मेति निश्चित्य अद्वैतानन्दभावतः । अनेकजन्मपापौघात्तारितो भवसागरात् ॥ २५ ॥ मधुरादिरसादीनां रसो यस्य रसादहो । प्रोच्यते वेदवचसा रसो वै स इति स्फुटम् ॥ २६ ॥ अगमन्मे मनोनेत्रेत्यादिवृत्तिप्रकाशकः । कैवल्यैकस्वसंवेद्यः परिपूर्णोऽवशिष्यते ॥ २७ ॥ अहमेव जगन्मत्वा मदन्यन्नास्ति किंचन । वर्तते स भवेद्योगी बोधानन्दैकविग्रहः ॥ २८ ॥
ग्रन्थविचार॥ अकृत्रिममिदं ज्ञानं सर्व परिचक्ष्यते । ब्रह्मैवाहं च चिन्मात्रमहमेव शिवः सदा ॥ २९ ॥
मुद्रापरः॥ विमल ब्रह्मवर्येण कृतं स्वात्मनिरूपणम् । गीयते येन भक्त्या स प्राप्यते मोक्षवैभवम् ॥ ३० ॥ स्वात्मानन्दस्तोत्रं नित्यं यः पठति मानवो लोके । तस्य भवेस्किमलम्यं कैवल्यं चापि करतले विद्धि ॥ ३१ ॥ इति श्रीविमलब्रह्मवयविरचितं स्वात्मानन्दस्तोत्रं संपूर्णम् ।
For Private and Personal Use Only