________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUSCRIPTS
आसनपरः ॥
शीतलसुमनउपवने पद्मासनबद्धनासिकादृष्टिः ।
नादानन्दघनेऽस्मि -
देशिकदयया विराजते योगी ।। १६ ।
कुण्डलीपरः ॥
वसुनादगतज्योतिस्सच्चिदानन्दरूपिणी ।
सैव शक्तिर्महामाया कुण्डली प्रोच्यते बुधैः ॥ १७ ॥
शक्तिः कुण्डलिनी दिव्या योगानन्दपदं ददौ । वसिष्ठादिगरिधानां मुनीनां योगिनामपि ।। १८ ।।
Acharya Shri Kailassagarsuri Gyanmandir
परात्परतरं वस्तु सर्वाधिष्ठानमव्ययम् । भण्यते ब्रह्मविद्भिर्यत्तदेवाहं न संशयः ॥ १९ ॥
738
आखण्डल सहस्रांशुपरमेष्ठिकपर्दिनः । यत्सत्तामनुवर्तन्ते वासुदेवः स उच्यते ॥ २० ॥
अखण्डानन्दसान्द्रोऽयं स्वप्रकाशस्वरूपकः । यस्यांशलेशमात्रेण जीवन्ति प्राणिकोटयः ॥ २१ ॥
अनेकजन्मसाहस्रप्राक्पुण्यपरिपाकतः ।
अखण्डाकारवृत्त्या च गम्यमानः स्वयं बभौ ॥ २२ ॥
अप्रमेयं सुराध्यक्ष मखण्डानन्ददायकम् । वन्देऽहं हृदयाकाशे ह्यवाश्ानसगोचरम् ।। २३ ॥
For Private and Personal Use Only
5869