________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
6889
SANSKRIT MANOBORITTA संपको महापुरुषः सर्वविद्योपदेष्ठा भवाते । शिव्याख्नु शु. ताध्ययनसंपन्नः सदाचारो मित्यानिलवस्तुविवेकी सर्व लक्षणयुक्तो गुरुभक्तो निखिलपुरुषार्थाकाली मन्त्रदेवतोपासनरत उपदेश्यो भवति । तत्र शिष्यः स्वगुरुमित्थं भावयेत् । अतीव कुपात्र वर्तते तदैवोपदिशेत् । तत्र शिष्यं स्ववामपार्थे समुपवेश्य तच्छिरस्वमृतमयं दक्षिणकरं निधाय कृपादृष्टया विलोकयन् शिष्यस्वरूपं स्वस्वरूपभूतसत्यज्ञानानन्तानन्दलक्षणब्रह्मणा सहाभेदमनुसंधाय इत्थमुपदिशेत् । “तत्त्वमसि । अहं ब्रह्मास्मि । अयमात्मा प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म । सत्यं ज्ञानमनन्तं ब्रह्म । एष त आत्मान्तर्याम्यमृतः । तद्योऽहं सोऽसौ, योऽसौ सोऽहम् । स यश्चायं पुरुषे, यथासावादित्ये, स एकः"। इत्यादि महावाक्यप्रतिपाचं नित्यशुद्धबुद्धमुक्तस्वभावं सत्यज्ञानानन्तानन्दस्वरूपं परिपूर्ण परब्रह्मैवासि न संसारी त्वं न कर्ता नापि भोक्ता कठस्वादिहेतुभूतदेहेन्द्रियमनोबुद्धिप्राणाहंकारादिपुत्रभित्रकलत्रादिभूतभौतिकभुवनादिसप्रपन्चः सर्वेपरमार्थानुस्यूतसञ्चित्सुकब्रह्मस्वरूपे त्वय्येन रज्जुसर्पवत्काल्पितः । त्वमेव समस्तपुरुषार्थब्रह्मानन्दस्वरूप इस्येवमुपदिष्टलक्षणं सच्चिदानन्दाद्वयं ब्रह्माहमस्मीति नि:सन्दिग्धं भावयेत् । अनन्तरं तु गुरुक्तं निराकारप्रमाविपारूपमन्त्रास्तदुक्तविधानेन तदनुष्ठानप्रकारानुपदिशेत् ।।
For Private and Personal Use Only