________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।। महावाक्यविवरणम् ॥
7739. MAHĀVĀKYAVIVARANAM.
नित्यशुद्धबुद्धमुक्तस्वभावं सर्वशं सर्वशक्ति परं ब्रह्म स्वानुग्रहार्थमिमं मानुषं वेषं धारयित्वा तिष्ठतीत्यत इत्थंभूताय स्वगुरवे स्वशरीरपर्यन्तं सर्वस्वं निवेद्य मुहुर्मुहुः प्रणम्य विज्ञापनं कुर्यात् ! 'भो भगवन् , कीदृशं स्वरूपमिति न जाने, ममार्य पुरुषार्थ इति च न जाने तत्स्वयमेव सर्व विदित्वा मम यद्धितं मन्यसे तदेव मह्यमनुगृहाण । अहं तु नानादुःखमयसंसारजलधिमध्ये. ऽनन्यशरणः परिभ्रमामि । मद्भाग्यवशात् सर्वज्ञः परमकारुणिको भवान् प्लव इवोपलब्धोऽसि । अतो मां भवाब्धेस्तारय रक्ष रक्ष' इति वदन्नुपासीत । एवं शिष्येणोपासितो गुरुः यदा महत्प्रधानभूतब्रह्मविद्यायास्तु समस्तदुःखमयमूलभूतप्रतिकूलाविद्यानिवर्तकत्वेन नि. त्यनिरतिशयानन्दस्वरूपप्रापकत्वेन समस्तानुकूलता च सुप्रसिद्धा । एवं भूतब्रह्मविद्योपदेशप्रकारः प्रस्तूयते । तत्र श्रोत्रियो ब्रह्मनिष्ठस्तत्वप्रतिपादनसमर्थः समस्तमन्त्र प्रयोगकुशलः शमशील आश्रमी परमकारुणिकः सर्वलक्षण
For Private and Personal Use Only