________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
5167
SANSKRIT MAKUBORITI प्रह्लादामीष्टदाने विबुधसमुदयस्तूयमानापदाने
शेषक्षोणीभृदन्त प्रविलसितपदाहोबलक्षेत्रगर्भात् । प्रादुर्भूते हिरण्यद्विरदमद... ध्वान्ततन्त्रं निहन्तुं
भीते सच्छात्रयोगे मम भुवनगुरावस्तु भक्तिसिंहे ॥१॥ कल्पक्षोणिरुहाच कल्पलतिकाश्चिन्तामणिः कामघुक् .
सर्वे सन्तु यदीय(दान)तुलनां नैवाधिरोदुं क्षमाः। ते याता अत एव लाघववशाल दिवं गौरवा
देष क्षोणिपतिस्त्वधो भुवमिति स्पष्टे धये(१) धीमतां ॥२॥ मल्लिकार्जुनमहामहेश्वरो
दानवारिनिवहोल्लसत्करः। सार्वभौम इति कुम्भितागमात्
कुम्भिनी स कथमियभवेन्नम् (१) ॥३॥ मल्लक्षोणिभुवो मितिं च समिति तस्यामसंख्यावतः
संख्यावन्निवहान्वनीपकगणान्वीक्ष्यावनिष्ठानपि । राज्यं वश्यमवश्यमप्यतितरां रुद्धान्विरुद्धान नृपान्
नानालोककसस्मिता(१)अपि जनास्सर्वे भृशं विस्मिताः॥४॥ विद्वद्वल्लभमल्लिकार्जुनमहीपालं तदीयामलं
कुर्वाणं समितिं निजं गुरुमतं द्रष्टुं चिरादागते । श्रीमद्भास्कररायनामविबुधे राज्ञा सुविज्ञापिते
कुर्वाते कुतुकेन कामपि कथां तौ स्पर्धमानाविव ॥५॥
For Private and Personal Use Only