________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4085
BANSKRIT MANUBORINTS रूपकं लक्षणोपेतं नटादिप्रश्नपूर्वकम् । महयेत्कृतिनेतारं कविञ्च कुलशीलतः ॥ भारतीञ्च प्रशंसित्वा प्रबन्धार्थस्य सूचकैः । पदैः प्रसङ्गकरणं पूर्वरङ्गमिति स्मृतम् ।।
नाव्यार्थसंसूचकप्रकृतोपयोगिप्रस्तुतार्थपदैः कश्चिदुपभोगक्षममृतुमवष्टभ्य तदनुकूलवर्णनया पूर्वापूर्वगुणोत्कथनं पूर्वरणमिति नामेत्यर्थः । एवं पूर्वरङ्गविधानानन्तरं कथानस्तावरूपायाः प्रस्तावनायाः अप्राकृतप्राकृतरूपै रूपकोपक. मसूचकैरान्तरपरैः शब्दैः प्रकृतार्थप्रशंसारूपाभिधानशक्त्या अवतारसमय इति प्रशंसति ।
पूर्वराविषैः पश्चात्प्रस्तावनमदाहतम् । अर्थान्तरपरैः शम्दैरप्राकृतपरैरपि । प्रकृतार्थप्रशंसा स्याद्रूपकोपक्रमस्तथा ॥
एवं नान्यनन्तरभारतीत्याश्रयणेन पूर्वरङ्गविधानपूवैकप्रस्तावनावसरमुक्त्वा स्त्रधारो नटी ब्रूते मारिषं वा विदूषकम् । स्वकार्यप्रस्तुताक्षेपि चित्रोक्त्या यत्तदामुखम् ॥ इति । प्राचीनलक्षणसङ्गत्यनुसरणेन नटनटीसमाहानाय त. स्वरूपमादौ विशदयति । स्त्रधारादल्पविद्यः गीतिशास्त्रविशारदः। मावग्राहयिता प्राझो नट इत्यभिधीयते ॥
512
For Private and Personal Use Only