________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUSCRIPTS
Acharya Shri Kailassagarsuri Gyanmandir
Beginning:
साकूताः शशिशेखरे सुरसरित्याविष्कृतानादराः स्पेरा भृङ्गिरिटावनन्यत्रारणे दीने दयामेदुराः । वात्सल्यप्रचुराः प्रसूनविशिखे रत्यां प्रसादोचराः कल्याणानि तरङ्गयन्तु जगतां मातुः कटाक्षाङ्कुराः ॥ ॥ नान्द्यन्ते सूत्रधारः ॥
(नेपथ्याभिमुखमवलोक्य) आर्ये सनिधेहि तावत् (प्रविश्य नटी ||) नदी || अय्य एवं हि णिओअणिजा ।
सूत्र || आर्ये नन्वस्यास्तज्जनगर कंजात कलहंस सुशो भावुकजन भावुकवितरण कल्पवल्ल्याखिलोकमातुरा - नन्दवल्ल्या स्तावद्वसन्तोत्सवे ससन्तोषमशेषदिग न्तोपसेदुषाममीषां रखिकविदुषामनुरजनानुरूपं किमिव रूपकमिति निरूपयतोऽपि चिराय न विभ्राम्यति मे चेतः ॥
भ्रू || आर्ये श्रृणु तावत् ।
शब्दाडम्बर सस्पृहाः कतिपये केऽप्यर्थ चित्रैषिणः
केचित्तद्वितयोत्सुकाः वशयितुं शक्याः प्रवाचा हामी ।
बचावद्रसिका रसोत्तर गुणग्रामाभिरामां परं श्राषन्ते फणिति भवेन सुकरं तेषां समाराधनम् ॥
॥ किवा ॥
For Private and Personal Use Only
3491