________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANAKIT MANUSOBITI
2867
Beginning : कर्तु सेवामुपगतवता सुन्दरेशोपकण्ठं
प्रत्युत्थानप्रणतिविधुरो व्याघ्रपादेन शप्तः । कामी कथित्पशुपतिपदाम्भोजविन्यासधन्ये
कैलासाद्रौ स्थितिमतनुत प्रेयसीविप्रयुक्तः ॥१॥ तेनात्यर्थ स्मरशरपराभूयमानेन भूय.
श्चिन्तातन्तुग्रथितमनसा जातु जातादरेण । अच्छोदाख्ये सरसि ददृशे कान्तयान्वीयमान.
श्चश्वञ्चञ्चूशकलितशरत्कौमुदीकश्चकोरः ॥ २ ॥ आलोक्यैनं स्मृतनिजवधूग्विलासस्तदानी
मश्रूण्यक्ष्णोदेवदतितरामाललम्बे सदैन्यम् । नालाई वा व्यथायितुमतिक्लिश्यमानान् वियोगाद
त्यद्रिक्त पदनहतके मन्यमाने प्रतीपम् ॥ ३॥ शापस्यान्तं समधनगिरामासमाप्तावशेषा
निधिन्वानः कथमपि निरुद्धोरुधारालबाष्पः। आन.नं मधुरवचनैः सन्दिदिक्षुः प्रियायै
हस्ते भूर्जत्वचमुपनयन् धातुलेखोपपनाम् ॥ ४ ॥ भद्रं भ्रातर्भवतु भवतस्त्वं हि तायस्यबन्धु
विख्यातस्त्वं त्रिजगतिगतिर्मादृशामार्तिभाजाम् । (गच्छामि त्वां) शरणमधुना तेन दोनोऽहमेवं
नैव व्यर्थी भवति हि कृताभ्यर्थना सज्जनेषु ॥५॥
For Private and Personal Use Only