________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSORIPTS
3257
निचितं धर्मशास्त्रार्थैरर्थशास्त्रसमन्वितम् । विश्रुतं सर्वलोकेषु पुराणपिव नूतनम् ॥ १८ ॥ समस्तदोषरहितं सहितं लक्षणैनिजैः । तदशेषमशेषज्ञ शंस नः शंसितव्रत ॥ १९ ॥ इति वाराणसीस्थेन मण्डलेन मनीषिणाम् । प्रोक्तः प्रोवाच धर्मात्मा कवीन्द्रो वदतां वरः ॥ २० ॥ कवीन्द्र उवाचएकवीरां भगवतीं गणेशं च सरस्वतीम् । अद्रुं च महासिद्धं सिद्धानामपि सिद्धिदम् ॥ २१ ॥ प्रणिपत्य प्रवक्ष्यामि महाराजस्य धीमतः । चरितं शिवराजस्य भरतस्येव भारतम् ॥ २२॥
End:
प्रतिवासरकल्पितांमसः
सरसीः पङ्कनिषण्णसारसाः। विरमझषकच्छपावली
विदधे तीव्रतरातपस्तपः ॥ ८ ॥ प्रतिफुल्लशिरीषपाटली
पटसौरम्यभृता नभस्वता। स्मरतापमबीभरन्मनः
सुधियां निर्विषयात्मनामपि ॥ ९॥ Colophon: (Sheet No. 231) इत्यनुपुराणे सूर्यवंशे निधिवासकरपरमानन्दकवीन्द्रप्रकाशितायां .. शतसाहस्रयां सहितायां शृङ्गारपुरप्रवेशो नामाध्यायः ॥
For Private and Personal Use Only