________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3256
A DESCRIPTIVE CATALOGUE OF
स तानुदारचरितान्प्रत्युत्थायाभिवाद्य च । पूजयामास विधिवत्संप्राप्तानतिथीनिव ॥ ८ ॥ परिवार्योपविविशुस्ते सर्वे तं द्विजोत्तमाः । शुश्रूषमाणाधरितं प्रथितं शिवभूपतेः ॥९॥ ततः प्रमन संः सर्वे तमृचुस्ते मनीषिणः । कर्तारं चारुकाव्यानामवतारं बृहस्पतेः ॥१०॥ मनीषिण ऊचुःयः शास्ति वसुधामेता राजा राजगिरीश्वरः। तुलजायाः प्रसादेन लब्धराज्यो महातपाः ।। ११ ।। विष्णोरंशो विशेषेण लोकपालांशसंभवः । मनस्वी सुप्रसन्नात्मा प्रतापी विजितोन्द्रयः ॥ १२ ॥ भीमादपि महाभीमः सीमा सर्वधनुर्भृताम् । धीमानुदारचरितः श्रीमानद्भनविक्रमः ॥ १३ ॥ कृती कृतज्ञः सुकृती कृतात्मा कृतलक्षणः। वक्ता वाक्यस्य सत्यस्य श्रोता चातिविचक्षणः ॥ १४ ॥ देवद्विजगवा गोप्ता दुर्दान्तयवनान्तकः । प्रपन्नानां परित्राता प्रजानां प्रियकारकः ॥ १५ ॥ तस्यास्य चरितं ब्रह्मन्ननेकाध्यायगर्भितम् । भगवत्याः प्रसादेन भवता यत्प्रकाशितम् ॥ १६ ॥ उदारशब्दसन्दर्म भूरिभावार्थमद्रुतम् । माधुर्यादिगुणोपेतमलङ्कारैरलङ्कृतम् ॥ १७ ॥
For Private and Personal Use Only