________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2452
A DEBÖRIPTIVE CATALOGUE OF
प्रकृतिप्रायेत्यादिना तृतीया स्यादिति । अत उत्प्रेक्ष्यते पृथिव्यामानदण्ड इव समूद्रद्वयव्याप्याहितेन भूमिर्मितेव प्र. तिभातीति यत्प्रमाणोहिमस्तित्प्रमाणाभूमिरिति । मितिमानम् । तदर्थो दण्डोऽश्ववासो नाबशाला इत्यादिवत्समासः। अथवा मीयतेऽनेनेति मानं तच दण्डति । इव शदोन भिनक्रमो योज्यः। ननु पृथिवीशब्देन सहसमस्तत्वात् कथं दण्डशन्दो न योज्यः। नैवम् । इवेन समासो विभक्त्यलोपश्चेत्यनेन तत्र समासो वत्रोवमानोपमेय भावः । तथा च कातन्त्रपरिशेष्टकारेण "निवृतमिवेनालोपश्वस्यादेः" इति त्यत्र सूत्रे इवेन सहोपमानस्य तत्पुरुषो तिपूर्वस्य स्यादेर्लोपश्च न भवतीति । तथा च बहवो महाकवय इवेनास(मस्त)मेव प्रयुयुजिरे । यथा 'पौरस्त्यस्तोयदर्तोः पवन इव पतन पावकस्येव धूमो विश्व स्वादि सर्गः प्रणव इव परं पावनो वेदराशेः। सन्ध्यानृत्योत्सवेच्छोरिव मदनरिपोर्नन्दिनादीनिनादः
सौरम्याग्रे सुखं (वो) वितरतु विनतानन्दनः स्यन्दनस्य' इति मयूरः । सं...पश्चात्र इव शन्दस्य प्रथमाचेन कचाचितौ विष्वगिवगजो गजौ” इति भारविरिति । अत एतत्सूत्रं चन्द्रेण प्रत्याख्यातम् । अत्र झुत्प्रेक्षायामिव. शन्दः समासस्थ प्राप्तिरेव नास्तीति सर्व समञ्जसम् । अस्तीति वर्तमानकालनिर्देशास्थित इति भूतकालय धातुसम्बन्धे प्रत्यया इति वर्तमानता । विगायति । व्यादानिर्माल्यादरपूर्वकाले क्त्वाप्रत्ययः । स्वमते अग्रिमस्थित्यपे. क्षणादिधिवक्षयात्रापि पूर्वकालता । न गच्छत्तीति नगाः
For Private and Personal Use Only