________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUSCRIPTS
aro श्राव्यपदे चिदम्बरकवेः शब्दार्थचिन्तामणौ सर्गः सौधरसादनर्गलरसः सारो द्वितीयोऽजनि ॥ ॥
अपि च ॥
यज्वा कौशिक गोत्रभूषणमणिः यः सूर्यनारायणस्वस्याभूत्तनयात्सुतनयाद योऽनन्तनारायणात् । चित्रे तस्य कृतौ चिदम्बरकवे शब्दार्थचिन्तामणौ सर्गो भिक्षुकलोल दिक्षुकरसः सारी द्वितीयोऽजनि । स्पष्टोऽर्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
Colophon:
इति पदवाक्यप्रमाणपारावारपारीणेन श्रमित्कौशिक गोत्र भूषणस्य श्री - मत्सूर्यनारायण दीक्षितस्य सूनोः अनन्तनारायणसुमतेः पुत्रेण श्रीनिवासविहन्मणेरनुजेन चिदम्बरकविना विरचितायां शब्दार्थचिन्तामणिव्याख्यायां निकषोपलाख्यायां द्वितीय सर्ग:
इति शब्दार्थचिन्तामणिव्याख्या समाप्ता ॥
साक्षाद्राघवरामसोदर कथासारप्रशंसारता
साक्षात्सेचनकं न कस्य विदुषः प्रेक्षीसमुल्लासिनी ।
द्राक्षोरक्षुरसाल बारघसिता रम्भा पयोउम्बरा
द्राक्षापाकर साति मारहृदसों चदम्बरी भारती ॥
लसद्रसाडम्बरलब्धवर्णा
कदम्बकामोद विकासकल्पा ।
अब्दालिरुत्कर्षकहर्षदाने शब्दार्थचिन्तामणिशारदेयम् ॥
For Private and Personal Use Only
2846