________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2844
A DESORIPTIVE CATALOGUE OF इरमाभूः । इ कामः प्रद्युम्नः रमाभूः रमायाः श्रियः रूक्मिण्याः भवतीति रमाभूः येन स इरमाभूः कृष्णः। नयाराज्यराः नयेन आराज्यराः आसमग्राः राज्यरायः राज्याश्रियः यस्य स तथोक्तः सन् । भानरा. भया दीप्त्या आनराः आसमन्तात्पूर्णाः नराः याभिः ताः तथोक्ताः । यादवावानमाः । वने वसन्तीति वानाः दुर्गाधिपतयः । " सोऽस्य निवासः" इत्यणप्रत्ययः यादवैः आधानमाः असामन्तात् वानानामासंपत्समृद्धिः यासु तास्तथोक्ताः । यद्वा । यादवाः । आवाननमाः याभिः ताः तथोक्ताः । उरूः गुर्वीः । “वोतो गुणवचनात्" इति विकल्पात् डीपोऽभावः । माः सम्पदः यान गच्छन् अंगीकुर्वन् सन् । अभात् । “अकारो ब्रह्मविष्ण्वीशकमठेवणे रणे । पौर-तापुरे हेतौ लज्जायां भूषणेज्ययोः ॥रास्त्रियां हेम्नि शालायामाशंसायां गतावपि" इति विश्वः ॥ उपमालङ्कारस्य वर्णानुप्रासेन शब्दालङ्कारेण सह तिलतण्डुवत् संसृष्टिः ॥ अस्य सङ्गीतश्लोकस्य द्विगुणात्मकस्य आद्यन्तयोरमृतबी. जस्य कारस्य प्रयोगचमत्कारात् । तुङ्गलाभरसी पङ्गलाभ्युच्चयो महीयानवगन्तव्यः श्लेषप्रसादसौकुमार्यमाधुदियो गुणा रसर(१)माधुर्याः स्पष्टतराः । हारिश्लेषगुणोपमा रसनिधावारोहरामायणे
धीरोहादवरोहभागवतके धीरोहसम्पादने ।
For Private and Personal Use Only