SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2880 A DEBORIPTIVE CATALOGUE OF End: रामचन्द्रकविना कविनादः पुरुषोत्तमसुनेनसुतेन । राधिकाहृदयशोकदमासीद्राधिकाहृदयशोकदमारात् ॥ १९ ॥ श्रीराधाविनोदकाव्यं सम्पूर्ण शुभमस्तु ॥ कविः स्वकीर्त्यनुवृत्तये स्वनाम ग्रन्थनाम निवनाति । रामचन्द्रेति ॥ रामचन्द्रकविना अदः राधिकाहृदयशोकदं राधिकाया हृदयशोकस्तं यति तद्राधिकाहृदयशोकदं नाम काव्यं आसीत् तेन विरचितमित्यर्थः । कीदृशेन कविना। को ब्रह्मा इ: शम्भुः अः विष्णुस्ततो द्वन्द्वस्तेन कवास्ते विद्यन्ते यस्मिन् स्वामिनस्तेन । पुनः पुरुषोचमसुतनेसुतेन । पुरुषोत्तपसुतो जनार्दनस्तस्य इनसुतः ज्येष्ठतुतः तेन । किंविधमदः काव्यपाराडूरमाजन्म इति यावत् । राधिकाहृदयशोकदं राधिकायां हृदयं यस्य स हरिस्तस्य शोकस्तं यति तत् तद्भक्तिकरमित्यर्थः ॥ १९॥ ब्रह्मादिभिः सुरवरः परिगीयमानं सङ्गीयमानमनिशं श्रुतिभिर्मुरारिम् । गोपाङ्गनानयनविभ्रमलास्यमानं सच्चित्स्वरूपमनघं हृदि भावयामि ।। आसीदागपपारगो रविसुतप्रौढप्रकाशो बुधः श्रीमान श्रीपुरुषोत्तमः सुरगुरुप्रख्यः सतां संमतः । भ्रान्ता भूवलयं रसातलतलं यत्कीर्तिनारीश्रमं स्वर्गङ्गाजलगाहनादपनयत्येषा सुधास्पर्धिनी ।। For Private and Personal Use Only
SR No.020231
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 06
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages490
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy