________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSORIPTA
2829
nāgarl. No. of Granthas-250. Author--Rāmacandra. Complete.. Beginning:
मालीनोद्यतमाली मालीनो बलमाली । मालीनो वनमाली मालीनोऽवतु माली ॥ १॥ श्रीगणेशाय नमः । दक्षिणाकालिकायै नमः॥
श्रीराधामाधवो जयतु । कुशेशयदलाकारशयशायिनि मौक्तिके । मुहुर्मुहुरुदासीनामासीनापाश्रये श्रियम् ॥१॥ राधाविनोदकाव्यस्य प्रकाशः : परितन्यते।
सुधिया रामचन्द्रेण मास्वतेव सरोरुहः ॥ २ ॥ प्रारीप्सितस्यैव निष्प्रत्यूहसमाप्तिकामनया कृतं खेष्ट. देवताकीर्तनात्मकं मङ्गलं शिप्यशिक्षायै निबध्नन् काव्यलक्षणीभूतापाशिषं प्रतिजानीते । “आशीर्नमस्क्रिया" इति सरणात् , ननु "सर्गबन्धो महाकाव्यम्" इत्याद्यधिकृत्याशीनमस्क्रियेत्याधुक्तमिति कथमस्याः काव्यलक्षणत्वमिति चेत् , न । एतदेवाधिकृत्य "न्यूनमप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति" इत्युक्तेः । किञ्च "सर्गबन्धो महाकाव्यम्" इत्यनेन सर्ग विना कृतस्य काव्यत्वमक्षतपेव । विशेष विना कृतस्थ सामान्यत्वात् । वस्तुतः काव्यमन्यदेव यत्र रसादिचिन्तेति विस्तृतमन्यत्र । वनमाली हरि!ऽस्मानवत्वित्यन्वयः ।। 356
For Private and Personal Use Only