SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 2808 End: www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF (इति मुरमथनोक्तया मोदमानः फणीन्द्रः त्रिपुरहरनियोगं दीर्घकालादवाप्य । तदपि परिदिदृक्षुस्ताण्डवं चन्द्रमौलेरखतरितुमवन्यामंशतश्चाशशंसे ।। ६५ ।। ॥ इतीति ॥ इति पूर्वोक्तप्रकारेण । मुरमथनस्य विष्णोरुक्तया वचनेन मोदमानः प्रहृष्यन् फणिनामिन्द्रः शेषः दीर्घकालाद्वहुकालात् परशब्दाध्याहारेण दिक्शब्दयोगे पञ्चमी । बहुकालात्परं त्रिपुरहरस्य शिवस्य नियोगमनुज्ञामवाप्य चन्द्रमौलेरीश्वरस्य तत्ताण्डवं आनन्दनृत्तमपि परिदिदृक्षुः सन् अंशतः स्वभागतः अवम्यां भूमाववतरितुमवरोढुम् "वृतो वा " इति विकल्पितत्वादिटोदीर्घाभावः । अशशंसे इयेष | आडः शसि इच्छायां लिट्यात्मनेपदम् । मालिनीवृत्तमेतत् । 64 ननमयययुतेयं मालिनी भोगिळोकैः " इति लक्षणान् ॥ इतीति ॥ इति श्री यज्ञरामदीक्षित पुत्रस्य रामभद्रयज्वनः । कर्तरि षष्ठी । कृतौ पतञ्जलिचरिते पतञ्जलिचरिताख्यकाव्ये | कृतिशब्दस्य नित्यस्त्रीलिङ्गत्वात् पतञ्जलिचरितविशेषणत्वेऽपि स्त्रीत्वम् प्रथम आद्यः सर्गः अध्यायः परिच्छेद इत्यर्थः । " सर्गों निश्चयनिर्माण स्वभावाच्या ययुक्तिषु । उत्साहत्यागयोश्च ” इति रत्नमाला | इति समाप्त इत्यर्थः । “इतिः हेतुप्रकरणप्रकारादिसमाप्तिषु इत्यमरः । एवमुत्तरत्र सर्गेष्वपि व्याख्येयम् । "" For Private and Personal Use Only
SR No.020231
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Tanjore Vol 06
Original Sutra AuthorN/A
AuthorP P S Shastri
PublisherGovernment of Madras
Publication Year1929
Total Pages490
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy