________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
BANSKRIT MANUSCRIPTS
2807
अथैतत्पतञ्जलिचरित्रं नाम कान्यं “काव्यं यशसे. ऽर्थकते" इत्याद्यमियुक्तवचनानुरोधेन यशाप्रयोजनकं भगवद्विषयतया "काव्यालापांश्च वर्जयेत् " इति निषेधाविषयं चिकीर्षुः कविरेष प्रथमं निष्प्रत्यूहपरिपूरणाय वस्तुनिर्देशरूपं मङ्गलं निबधाति । __ अस्तीति ॥ यः पयोधिः क्षीरसमुद्रा धरण्या भमेर्वलयं मण्डलं “मण्डलचवालय वलयम्" इति शब्दरत्नाकरे । “समन्तात्सर्वतो विष्धारितश्च समन्ततः" इति तत्रैव। रुन्धन आवण्वन् धरण्या इत्यनुषज्यते । स्वच्छमत्यन्तनिर्मलं याकूलं क्षौमं तस्य लीला क्रियां विलासं वा "लीला क्रियाविलासच" इति वैजयन्ती । दधाति वहति । श्रियः लक्ष्म्याः । “डिति इखश्च' इति विकल्पानदीत्वाभावः । चन्द्रमसश्चन्द्रस्य सुधायाः अमृ. तस्य कल्पद्रुमाणां पञ्चानां देवतरूणाञ्च । यद्यपि देवतरुविशेषः कल्पद्रुपः तथापि देवतस्मात्रे “ कल्पद्रमाणामिव पारिजातः" इति कालिदासप्रयोगः । "कल्पो न्याये सुरद्रुमे । विकल्पे च" इति वैजयन्ती। पिता उत्पादयिता । पुराणसिद्धोऽयमर्थः स पयोधि. रस्ति । सत्तावाचिनः प्रथमं प्रयोगात्, श्रीचन्द्रादिवाचकप्रयोगाच्च मङ्गलं भवति । असिन् सर्गे इन्द्रः वजोपेन्द्रवजामिश्रितोपजातिवृत्तं द्रष्टव्यम् ॥ १ ॥
For Private and Personal Use Only