________________
Shri Mahavir Jain Aradhana Kendra
2656
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
A DESCRIPTIVE CATALOGUE OF
अतः परमसिद्धान्तमाघ (ह) पद्यैः प्रदर्शयन् । रामधर्मात्मजव्याजं प्रस्तोतु कविरीश्वरम् ॥ १० ॥
॥ स्वाधिष्ठानमिति ॥
अधिष्ठीयत इत्यधिष्ठानमासनम्० । “अघिवानं चक्रपुरप्रभावाध्यासनेष्वपि " इत्यमरः । रजसा परागेण पिञ्जरेतीतरशिल्पसाम्यम्० । इच्छेति तद्वैलक्षण्यम् • कर्मपादोपादानेनैव शिल्पितावगम ( नाधिकपदत्वम्० व्यतिरेकालङ्कारध्वनिः । तेन सङ्कल्पमात्रसामग्रीकं विश्वसृजं नमस्यतामयापि तन्मात्रसामग्रीका काव्यसृष्टिः सुकरेति व्यज्यत इति प्राञ्चः । वस्तुतस्तु संसारानर्थनिवृतिरूपं महा मोहमहिम्ना चेतनाचेतननानाप्रपञ्चात्मनाव भासमानाखण्डानन्दात्मतत्त्वमेवात्र नन्तव्यत्वेनोपन्यस्तमिति मन्त व्यम् । तथा हि । स्वस्यात्मनोऽधिकानं पुरं शरीरं तथाम्बुजं हृदयकमलं "ब्रह्मपुरे दहरं पुण्डरीकम्” इति श्रुतेः । तत्र रजःपुजेन सूक्ष्मसमुदायेन लिङ्गशरीरेण पिञ्जरा० रलयोरेकत्वस्मरणात् पिज्जला भृशमाकुलामूर्तिः स्वरूपं यस्य० “समुत्पिञ्जपिञ्जलौ भृशमाकुला" इत्यमरः । देहद्वयतादात्म्यापन हि चिदात्मा तद्धर्मान ! त्मन्यभिमन्यमानो व्याकुल इव लक्ष्यते । अनेन तत्त्वमस्यादिवाक्यगतत्वं पदार्थश्चिन्मात्रो लक्षितः ! " योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः " इति श्रुतः । इच्छेत्यादिना सङ्कल्पमात्रमूर्ति भूत भौतिकप्रपञ्चाभिन्न निमितोपादनतो पलक्षितशुद्धस्य पदार्थो दर्शितः । तयोरोपाधिकभेदस्य
For Private and Personal Use Only
·