________________
Shri Mahavir Jain Aradhana Kendra
Beginning:
www.kobatirth.org
SANSKRIT MANUSCRIPTS
श्रीगणेशाय नमः ||
पाणिनये गौतमये जैमिनये ऽनन्तबादरायणये । सर्वस्वं निजमेकं सद्विद्यातीर्थमुत्तमश्लोकम् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
भाद्रह्मज्ञानि वंशावतंसश्रीमद्गोजादत्त सूरिप्रभूतेः । हृद्यो विद्वलक्ष्मणस्य प्रयासो विश्वेशस्य प्रीतये शश्वदस्तु || २ ||
परमात्मानमानम्य श्रीरामायणभारते । आवश्यक पदान्येव विवरीतुं यतामहे || ३ || निरस्तानर्थ मद्वैतमखण्डानन्दमिच्छता । आत्मा द्रष्टव्य इत्यादिरस्ति वेदान्तडिण्डिमः ॥ ४ ॥ सर्वोपाधिविनिर्मुक्तं सचिदानन्दमद्वयम् । स्वं विज्ञातुमनीशस्य सगुणोपासनोदिता ॥ ५ ॥
साप्यत्यन्तविमूढानामशक्येति दयालवः । कवयः कृष्ण रामादिवर्णनैरुद्धरन्त्यम् || ६ || विष्णुरेवेदमखिलमिति यद्यपि निश्चितम् । तथापि नैतन्मन्दानां मतिमारोहति द्रुतम् ॥ ७ ॥
सर्ववेदैकसारस्य प्रणवस्याप्युपासनम् । संसारतरणोपायं कोsपि नोमिति मन्यते ॥ ८ ॥
श्रुतिस्मृतिपुराणादिप्रसिद्ध महिमोर्जिता ।
कस्यामपि स्थितिः कस्याप्य भागस्य न दृश्यते ॥
For Private and Personal Use Only
2655