________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSORIPTA
2645
आरूढः सह लक्ष्मणो रघुपतिः सीतामिमा ह्रादयन्
सीते सेतुममुं समुद्रसरितः पश्येत्ययोध्यामगात् ।। ९० ॥ किष्किन्धायाममित्वा कपिकुलयुवतीस्तं समारोप्य सद्यः
पश्यन्मध्ये प्रयागं पवनतनुभुवं प्रेषयित्वा पुरस्तात् । नन्दिग्राम परस्ताद्भरतमभिमुखायातमासाद्य गत्वा
सम्यक्तातो रथस्थः सपदि निजपुरी भ्रातृभिः प्राप रामः॥९१॥ साकेते वेगवद्भिः कपिभिरुपहृतैः काञ्चनैः पूर्णकुम्भ
विद्वद्भिर्मविद्भिर्मुनिभिरपि मुदा सप्तभिर्मन्त्रिभिश्च । जानक्या रत्नपीठे रविकुलतिलकं संनिवेश्याभिषेकं
कुर्वनिर्धारयित्वा मकुटमपि मनोः प्रापिता भूः सलक्ष्मीः ॥ ९२ ॥ लब्ध्वा राज्यं स रामो भरतमवनतं यौवराज्येऽभिषिच्य
स्वाराज्ये वृत्रहेव प्रवणरिपुकुलस्वस्थचित्तो बभूव । पुष्टो लोकस्तदानीं प्रमुदितजनतः पूर्ण कामः सदासीत्
काले काले सुवृष्ट्या मुहुरपि सफला भूरि सम्पत्प्रदा भूः ॥९३॥ Colophon: इति श्रीमदभिजात भोसलकुलकलशजलधिसम्पूर्णतुहिनदीधितेरखि
लधरणिपालामकुटतटीनीबीडतमणिकिरणपटल मञ्जरीपिञ्जरितचरणपङ्कजस्य सकलकल्याणगुणशेवरेकमहाराजस्य तनयेन तदयुतगुणमधिकशुभगुणमणिगणमहोदधेः सकलभाषामृतसरलसन्दर्भगुणगरिमसमभिव्यञ्जितानिज सरस्वतीपुरुषावतारभावस्य शाहजि. महविलारेरनुजन्मना शरभोजिराजेन सङ्घहरामायणे राघवचरिते महाकाव्ये द्वादशः सर्गः ॥ श्रीरामचन्द्रार्पणमस्तु ।
। श्रीरस्तु ॥ श्रीगोपालाय नमः ॥
For Private and Personal Use Only