________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2588
A DESORIPTIVE CATALOGUE OF
पराजितैयः खलु पार्थिवेन्द्रैः
सदा समासेवितपादमूलः। विक्रान्तलोकत्रितयो महीया
विभाति सम्राडिव विश्ववीरः ॥ १६ ॥ मुनीन्द्रबृन्दोपहितोपकण्ठो
महेशसान्निध्यपवित्रतोयः। तुषारभसनपिताखिलाङ्गो
महातपस्वीव मृगैः परीतः ॥ १७ ॥ यस्मिन् रजन्यां रजनीकरान्तः
कुरङ्गमालोक्य कुतूहलेन । किरातबाला मृगया विहार
कोलाहलं विभ्रति मेखलासु ॥ १८ ॥ दोषासु दोषारमणाननानां
भूषाविशेषाधिकसुन्दराणाम् । गुहासु यस्मिन्पुरुषा लभन्ते
योषाजनानां पुरुषायितानि ॥ १९ ॥ माकन्दवाटीषु मनोहरासु
मरन्दधारावहमञ्जरीषु । मन्दश्चरन्गन्धवहः किराती
रतिश्रमं यत्र जुदत्यजस्रम् ॥ २० ॥ यसिन् द्विजाः काश्चनकान्तिजालै रखुध्यमाने दिवसावसाने।
For Private and Personal Use Only