________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
SANSKRIT MANUSCRIPTS
विहर्तुमागत्य विमुच्य वासो
विलज्जिता यान्ति विलासवत्यः || १० ||
गुहोपकण्ठे रतौ विशीर्णैमुक्ताफलैर्यत्र विमिश्रितानि ।
आदाय वाराण्यबलाः किरन्ति सूत्रेषु कर्ते सुषिराण्यदृष्ट्रा ।। ११ ।।
तारावली पुष्पवने यदीये विहारवीरुद्रलयावसक्ता ।
अकालपुष्पोद्गमशङ्किनीनां
मुदं विधचे मुहुरङ्गनानाम् ॥ १२ ॥
मधु पत्र महीरुहाणां
प्रवालबालप्रसवावृतानाम् ।
पुष्पापचाये पुरुहूतपौरा
निन्दन्ति तन्नन्दनमप्यजस्रम् || १३ ||
यः सन्ततं गहरगर्भत्र कत्र
समुच्छ्रसगन्धवहच्छलेन ।
सुदुर्वहश्रोणि भराव भो
निश्वासवातं प्रतिमुञ्चतीव ॥ १४ ॥
यो वंशवानप्यकुलीनमूर्धा
Acharya Shri Kailassagarsuri Gyanmandir
यश्चापि पाण्डुर्धृतराष्ट्र एव ।
वृतः प्रसिद्धैरपि विप्रसिद्धै
र्यस्सन् गिरीशोऽपि विभाति विष्णुः ।। १५ ।।
For Private and Personal Use Only
2567