________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
2170
A DESORIPTIVE CATALOGUE OF उपेन्द्रस्येव यस्यासीदिन्द्रस्सुमनसाम्प्रियः । महाक्रतूनामाहर्ता माधवार्यसहोदरः ॥ ८॥ यस्य निश्वसितं श्रुतीर्बहुविधा व्यासावतार(:) स्वयं
व्यासोक्ताः पुनरध्वरश्रुतफला बौधायनात्मा व्यधात् । कल्पाध्वक्रयता प्रयोगसुलभास्तान्विप्रकीर्णान्बहूनेकीकृत्यमयं हरिस्समजनि श्रीसायणार्यः क्षितौ ॥९॥ ससत्कुर्वन् महादानान्याम्नायोक्तान्यनुक्रमात् । तुलापुरुषदानेन भूसुरान्समतोषयत् ।। १०॥ तस्मिन्महोत्सवे सन्तः प्रशंसन्तस्तदडतम् । उपासत तदैकात्म्यादुन्नतश्रीपरिच्छदाः ॥ ११ ॥ स तैः प्रकाशितो यान्तःप्रकाशात्मा व्यरोचत । प्रभाकरस्तुलारूढः प्रांशुर्योतिर्गणैरिव ॥ १२॥ ते तपस्तेजसा राशिमासीनं परमासने । सर्वशं सायणाचार्य पर्यपृच्छन्सभासदः ॥ १३ ॥ अधीतास्सकला वेदास्ते च दृष्टार्थगौरवाः । तत्प्रणीतेन तद्भाष्यप्रदीपेन प्रथीयसा ॥ १४ ॥ वेदास्सर्वेपि यज्ञार्थास्तत्प्रयोगान्सविस्तरान् । प्र(प्राणैषीदात्मकल्पन महाबौधायनो मुनिः ॥ १५ ॥ स पुनर्विप्रकीर्णत्वाद्गहनत्वाच्च देशिक । न स्थूलबुद्धिभिः शक्यमस्माभिरवगाहितुम् ॥ १६ ॥
आध्वर्यवेण हौत्रेण तथौद्गात्रेण वा विना । . न निर्वहन्ति कात्स्न्येन वैदिक्यो निखिलाः क्रियाः ॥
For Private and Personal Use Only