________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
· SANSKRIT MANUSCRIPTS
2169
रागीशाद्यास्सुमनसस्सर्वार्थानामुपक्रमे । यन्नत्वा कृतकृत्यास्स्युस्तनमामि गजाननम् ॥ १॥ सत्सूत्रान्वितशाश्वतागममहारत्नं विधानं गिरां
प्रत्यक्चित्तमुपास्महे वयममी बोधाय बौधायनम् । यद्वाङ्नावमबन्ध्यबन्धमहतीं प्राप्याध्वराम्भोनिधेः
पारं यान्ति मनीषिणो बहुविधैस्तन्त्रस्यतस्यामिभिः ॥२॥ सूर्याचन्द्रमसौ प्रकाशवपुषावास्तां जगच्चक्षुषी
ताभ्यामन्वययो_यं समुदभूत्तत्राविराभूधदुः । वंशे चन्द्रमसे तदन्वयनिधिः श्रीसं(१) भोभून्नृप .
तस्मात्प्रादुरभूदभीष्टसुरभिश्रीबुक्कपृथ्वीपतिः॥३॥ हरिहरनिभभूमा कामदोभूज्जगत्यां
हरिहरनरपालस्तस्य भूष्णुस्तनूजः ।। परिणयति धरित्री यस्य कीर्तिप्रताप
प्रभवत परिणाहैव्यक्तनक्तन्दिनश्रीः ॥४॥ मण्डले च कृपाणस्य मण्डलाग्रे च तीक्ष्णताम् । विदुषाकम्पयन्भाति विद्विषाश्च शिरांसि यः॥ समधिकविभ(व) श्रीस्सत्क्रियाभिर्द्विजानां
हरिहरनरपालः कस्य न स्यात्प्रशस्यम् (४) । अवितथगतिभिर्यदानधारासरिद्धि
नवनवपरिणेता वर्धते सिन्धुराजः ॥६॥ तस्याभूदन्वयगुरुतत्वसिद्धान्तदर्शिनः । सर्वज्ञः सायणाचार्या(यों) मायणार्यतन अवः ॥ ७ ॥
For Private and Personal Use Only