________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SANSKRIT MANUSCRIPTS
191
अपि पातकसंयुक्तः कालेन सुकृती भवेत् । येन येन च कामेन अपेदिममृषि सदा ॥ स सकामस्समृद्धस्स्यात् श्रद्दधानस्य कुर्वतः । होमं वाप्यथवा जाप्यमुपहारनथो चरुम् ।। कुर्वीत येन कामेन तत्सिद्विमवधारयेत् । ज्ञानगम्यं परं सूक्ष्मं व्याप्य सर्व व्यवस्थितम् ।। ग्राह्यमत्यन्तयत्नेन ब्रह्माभ्येति सनातनम् । सहस्रशीर्षेति सूक्तं सर्वकामफलप्रदम् ॥ वेदगर्भशरीरेण स वै नारायणः स्मृतः । ब्रह्मेन्द्ररुद्रपजेन्या अत्र सूक्ते व्यवस्थिता. ।।
एतत्तु य: पठति केवलमेव सूक्तं
नारायणस्य चरणावभिवन्ध वन्द्यौ । पाठेन तेन परमेण सनातनस्य
स्थानं जरामरणवर्जितमेति विष्णोः ॥ हविषानौ जले पुष्पैर्ध्यानेन हृदये हरिम । यजन्ति सूरयो नित्यं जपेत रविमण्डले !
इत्येवमुक्तः पुरुषस्य विष्णो
राविधिर्विष्णुकुमारनाम्रा । मुक्त्येकमार्गप्रतिबोधनाय
दृष्ट्वा विधानन्त्विह नारदोक्तम् ॥"
॥ पुरुषसूक्तम् ॥
324. PURUSA SUKTAM. Burnell's Catalogue No. 2363. Page 1. Right column.
For Private and Personal Use Only