________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11:997
THE SANSKRIT MANUSCRIPTS येनाद्वैतमतादिदावदहनो विश्वक्षयायोद्ध्यतो ध्वस्तो व्याससुधासमुद्रविलसज्ज्ञानामृतं वर्षता ।
पूर्णः सत्तरसीगणोऽतिमहितः श्रीनीलकण्ठेन सः स्वानन्दं वितनोतु विष्णुपदगः स्वानन्दतीर्थाम्बुदः ॥
आनन्दतीर्थचरणं शरण चामि यद्वलात् ।
अद्वैतिरसनाच्छेदकतरी वाग्विजम्झते ।। नन्वन्यऽपि वेदविरुद्धा भूयांसः समयाः सन्ति । तत्किमित्यद्वैतमत एव प्रद्वेषविशेष इत्यत आह - अन्येऽपि चार्वाकतथागतार्हतप्रभा. १.राक्षांघ्रीकणादकल्पिता कदागमा. सन्ति । तथापि नो तथा यथायथ म्वत . . . . । स्वपर सिद्धान्तसाधनबाधनसामर्थ्यविकलतयाप्यर्थवत्वेन सर्वदरागमेवप्यत्यन्ताधमत्वादीदृशोऽन्यः कोऽप्यधमो नास्तीत्यतस्तस्यैः वात्यन्तहेयत्वादुक्तमुपपन्नमिति भावः ।
श्रीनारायणपण्डितार्यकृतिना सन्दीपिते सर्वतः
प्रोदनन्मरुद्ग्रहागममहानुग्राहलब्धौजसा । मायात्रादिमहाटवीप्रलयकृत्यद्वैतकालानले
प्रादुर्भावमगात्समुज्वलतरः प्रज्वाल इत्यादिमः ।। सर्वतः सर्वदेशेषु कालेषु वा सर्वेभ्योऽपि शास्त्रेभ्यो वा प्रकर्षण प्रवर्तते यो मरुदुद्ग्राहागमो मरुना प्राणरूपानन्दतीर्थविरचितं शास्त्रं सर्वदेवेभ्यः शेषरुद्रगरुडादिभ्यः प्रकर्षेण काशमानो यो मरुद्ग्रहो मरुत्सु सर्वप्राणेषद्ग्रहः . . . . अस्व प्राणस्तस्यागमः शास्त्रमिति वा योज्यम। तस्यागमस्य योऽयं परमानुग्रहस्तेन लब्धं प्राप्तमोजो येनेति प्रसिद्धानन्दसन्दीपने ऽपि महामारुतागमस्य सा(?)विद्यमिति भात । Colophon :
इत्यद्वैतकालानले प्रथमः प्रज्वालः ।
नथापेयदीक्षितोत्प्रेक्षितं माध्वाभिमतपञ्चाधिकरण्यां दूषणाभासजाल मनूद्य निराचिकीर्षगुरुप्रणामाचरणपूर्वकं चिकीर्षितं प्रतिजानीते---
For Private and Personal Use Only