SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAE SANSKRIT MANUSORIPTS. 9035 सूर्यादिग्रहचारेषु ग्रहणे ग्रहसंयुतौ । त्रिप्रश्ने चन्द्रवृत्तौ च सर्वत्राङ्गीकृतं हि तत् ॥ द्वीपसागरशैलानां सङ्ख्याव्यासपरिक्षिपः । भवनव्यन्तरज्योतिर्लोककल्पाधिवासनाम् ॥ नारकाणां च सर्वेषां श्रोणिबन्धेन्द्रकोत्कराः । प्रकीर्णकप्रमाणाद्या बुध्यन्ते गणितेन ते ।। प्राणिनां तत्र संस्थानमायुरष्टगुणादयः । यात्राद्याः सहिताद्याश्च सर्वे ते गणिताश्रयाः ॥ बहुभिर्विप्रलापैः किं त्रैलोक्ये सचराचरे । यत्किञ्चिद्वस्तु तत्सर्वं गणितेन विना न हि ॥ तीर्थकृद्भयः कृतार्थेभ्यः पूज्येभ्यो जगदीश्वरैः । तेषां शिष्यप्रशिष्येभ्यः प्रसिद्धाद्गुरुपर्वतः ॥ जलधेरिव रत्नानि पाषाणादिव काञ्चनम् । शुक्तेर्मुक्ताफलानीव सङ्घयानीव(ज्ञान)महोदधेः ॥ किश्चिदुद्धत्य तत्सारं वक्ष्येऽहं मतिशक्तितः । अल्पं ग्रन्थमनल्पार्थं गणितं सारसङ्ग्रहम् ॥ संज्ञाम्भोभिरथो पूर्णे परिकर्मोरुवेदिके । कलासवर्णसंरूढल्ठत्पाठीनसङ्कुले ॥ प्रकीर्णकमहाग्राहे त्रैराशिकतरङ्गिणि । मिश्रकव्यवहारोद्यत्सूक्तिरत्नांशुपिञ्जरे ॥ क्षेत्रविस्तीर्णपाताले खाताद्यसिकताकुले । करणस्कन्धसम्बन्धच्छायावेलाविराजिते ॥ गणकैर्गुणसम्पूर्णैस्तदर्थमणयोऽमलाः । गृह्यन्ते फरणोपायैः - सारसङ्ग्रहवारिधौ ॥ For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy