SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2084 A DESCRIPTIVE CATALOGUE OF सङ्ख्याज्ञानप्रदीपेन जैनेन्द्रेण महात्विषा । प्रकाशितं जगत्सर्वं येन तं प्रणमाम्यहम् ॥ जैनेन्द्रेण जिनप्रणीतेन महात्विषा बहुप्रकाशेन येन सङ्ख्याज्ञानप्रदीपेन 'गणितशास्त्रज्योतिषा सर्व षड्द्रव्यसमुदायरूपं जगत्प्रकाशितं तमहं प्रणमामि । प्रीणितः प्राणिसस्यौघैः नीरीतिनिरवग्रहः । श्रीमतामोघवर्षेण येन स्वेष्टहितैषिणा ।। * पापरूपाः परा यस्य चित्तवृत्तिहविर्भुजि । भस्मसाद्भावमीयुस्तेऽवन्ध्यकोपो भवेत्ततः ॥ वशीकुर्वन् जगत्सर्वं स्वयं नानुवशः परैः । नाभिभूतः प्रभुस्तस्मात् अपूर्वमकरध्वजः ॥ यो विक्रमक्रमकान्तचक्री चक्रकृतक्रियः । चक्रिकाभञ्जनो नाम्ना चक्रिकाभञ्जनोऽञ्जसा ।। यो विद्यानद्यधिष्ठानो मर्यादावज्रवेदिकः । रत्नगर्भो यथाख्यातचारित्रजलधिर्महान् ।। विध्वस्तैकान्तपक्षस्य स्याद्वादन्यायवेदिनः । देवस्य नृपतुङ्गस्य वर्धतां तस्य शासनम् ॥ लौकिके वौदके वापि तथा सामयिकेऽपि यः । व्यापारस्तत्र सर्वत्र सङ्यानमुपयुज्यते ॥ कामतन्त्रेऽर्थशास्त्रे च गान्धर्वे नाटकेऽपि वा । सूपशास्त्रे तथा वैद्ये वास्तुविद्यादिवस्तुषु ॥ छन्दोऽलङ्कारकाव्येषु तर्कव्याकरणादिषु । कलागुणेषु सर्वेषु प्रस्तुतं गणितं परम् ॥ For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy