________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANUSORIPTS.
9017 अथ युगभगणादिसङ्ख्योपदेशसङ्क्षपेण करिष्यन् आयेन सूत्रेण तदुपयोगिनी परिभाषामाहमू ॥ “वर्गाक्षराणि वर्गेऽवर्गेऽवर्गाक्षराणि कान्छ्यौ यः ।
खढिनवके स्वरा नव वर्गेऽवर्गे नवान्त्यवर्गे वा ॥” इति । व्या ॥ सूत्राण्यविभक्तिनिर्देशबाहुल्यात्पदविभागं प्रदर्य व्याख्यायते । वर्गा· क्षराणि । वर्गे । अवर्गे । अवर्गाक्षराणि । कात् । औ । यः । खद्विनवके । स्वराः । नव । वर्गे । अवर्गे । नवान्त्यवर्गे । वा ।
__ ककारादिमकारपर्यन्तानि पञ्चविंशतिः वर्गाक्षराणि । यकारादिहकारपर्यन्तानि अष्टाववर्गाक्षराणि । सङ्ख्याविन्यासस्थानेषु विषमस्थानानि वर्गसंज्ञानि । समस्थानानि अवर्गसंज्ञानि । ततोऽयमर्थः-वक्ष्यमाणेषु गीतिसूत्रेषु यानि सङ्ख्याप्रतिपादकानि वर्गाक्षराणि तानि इत्यर्थः ।
End:
म् ॥ आर्यभटीयं नाना पूर्व स्वायम्भुवं सदा नित्यम् ।
सुकृतायुषोः प्रणाशः कुरुते प्रतिकचकं योऽस्य ।। व्या ॥ पूर्वस्मिन् काले स्वायम्भुवादुद्धृत्य नरलोकप्रकाशितत्वात् स्वायम्भुवम् । अत एव सदा नित्यम् ।
इति पञ्चाशं सूत्रम् ॥ एवं गोलपादोऽप्युपदेशतो व्याख्यातः ॥
अत्र गणितपादे त्रयस्त्रिंशत्सूत्राणि । कालक्रियापादे पञ्चविंशतिः । गोलपादे पश्चाशत् । एवमष्टोत्तरशतमस्मिन् प्रबन्धे । पूर्वस्मिन् प्रबन्धे त्रयोदश । एवं सूत्राण्येकविंशत्युत्तरं शतम् । अतीन्द्रियार्थदर्शिना आचार्येण प्रणीतम् । एतानि च दिध्यात्रेण मया व्याख्यातानि ।
एतेषामेकैकस्य सूत्रस्थ ग्रन्थसहस्रेणापि निरवशेषार्थप्रतिपादनं कर्तु(न) शक्यते ॥ Colophon:
इति सूर्यदेवविरचितायामार्यभटीयव्याख्यायां गोलपादः समाप्तः ॥ आर्यभटीयं सव्याख्यं समाप्तम् ॥ .
For Private and Personal Use Only