SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 9131 अल्पावशिष्टे तु कृते भयो नाम महासुरः । रहस्यं परमं पुण्यं जिज्ञासुर्ज्ञानमुत्तमम् ।। वेदाङ्गमग्र्यमखिलं ज्योतिषां गतिकारणम् । आराधयन् विवस्वन्तं तपस्तेपे सुदुष्करम् ॥ दन्त (छन्दः) पादौ तु वेदस्य हस्तौ तत्त्वे तु (कल्पस्तु) पठ्यते । मुखं व्याकरणं तस्य ज्यौतिषं नेत्रमुच्यते ॥ तोषितस्तेन तपसा प्रीतस्तस्मै वरार्थिने । प्रहाणां चरितं प्राह मयाय सविता स्वयम् ॥ श्रीसूर्याशपुरुषो(ष उ)वाच शृणुष्वैकमनाः पूर्वं यदुक्तं ज्ञानमुत्तमम् । युगे युगे महर्षीणां स्वयमेव विवस्वता ॥ शास्त्रमायं तदेवेदं यत्पूर्व प्राह भास्करः । युगानां परिवर्तन कालभेदोऽत्र केवलम् ॥ भूतानामन्तकृत्कालः कालोऽन्यः कलनात्मकः । स द्विधा स्थूलसूक्ष्मत्वान्मूर्तश्चामूर्तमिष्यते ॥ Colophon: इति सूर्यसिद्धान्तभाष्ये अमरेड्यविरचिते मध्यमानयनो नाम प्रथमोऽ ध्यायः॥ End: इत्युक्त्वा मयमामन्त्र्य स भक्तेनातिपूजितः । दिवमाचक्रमे . . . . . स्वमण्डलम् ॥ मयोऽथ दिव्यं तत् स्थानं ज्ञात्वा साक्षाद्विवस्वतः । कृतकृत्यमिवात्मानं मेने निर्भूतकल्मषम् ॥ ज्ञात्वा तमृषयश्चाथ सूर्यभक्तवरं मयम् । परि . . रुपेत्याथो ज्ञानं पप्रच्छुरादरात् ।। For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy