SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 9118 A DESCRIPTIVE CATALOGUE OF मिव लोचनं यस्य तत्कमललोचनम् । भास्करीयानुसारेण भास्कराचार्यप्रोक्तहरणपरिध्याद्युपदेशानुसारेण गणितं कालपरिच्छेदोपायभूतं कालक्रियाख्यगणनं लघुशब्दप्रक्रियातो लघु क्रियते । करिशैलस्थं कमललोचनं महः प्रणम्य भास्करीयानुसारेण लघुगणितं क्रियते इति क्रियाकारकसम्बन्धः । अभिधेयं प्रतिज्ञाय श्रोतृजनप्रवृत्तये द्वितीयेन श्लोकेन तदुत्तरश्लोकादिपादत्रयसहितेन चक्राषिकमित्यन्तेन गणितशास्त्रप्रधानप्रतिपाद्यनवग्रहचाराद्यानयनसाधनीभूतभानुमण्डलावसानिकभास्करभूमिभ्रमणभगणजनितविवरलक्षणाहर्गणमाह--कल्यब्द इति । * * कर्मानुष्ठानकालसमानीतलमादिद्वादशभावस्थितस्फुटग्रहगत्यनुरूपशुभाशुभ - फलसंवाददर्शनात् । श्रीजिष्णुनन्दनार्यभटलल्लटनटेशपूर्तदामोदरपरमेश्वरवटच्चेरिश्रीकेरलनीलकण्ठादिभिरपि उपगतस्फुटार्कचक्रावधिकोऽहर्गणः स्फुटाहर्गणसिध्यर्थमयमप्याचार्यः सालप्रियशोधनं कृतवान् । सालप्रियशोधनेन मध्यमाहर्गणस्य स्फुटत्वापत्तौ युक्तिरुच्यते--- सुन्दरेशकते वाक्यकरणस्य प्रकाशने ।। सोमदेवाहतेऽध्यायः प्रथमो लधुरीरितः ।। Colophon: इति वाक्यकरणे लघुप्रकाशिकायां सोमदेवाहतायां सुन्दरराजविरचितायां प्रथमोऽध्यायः ॥ इति सुन्दरराजसोमदेवविरचितायां वाक्यकरणदीपिकायां स्फुटाधिकारो नाम द्वितीयोऽध्यायः ॥ एवं वैधृतेरपि स्पर्शमोक्षकालावानेतव्यौ । अत्र गत्यन्तरांशकहृतमिति आचार्यखलेन(स्वलने)नोक्तवान् । यद्वा सूर्यसिद्धान्तकारादिना स्खालित्येनोक्तं न ज्ञातवान् । ग्रहणस्थित्यर्थ एव गत्यन्तरांशकैः हरणं युक्तमिति श्रीमत्केरलसनामनिवासिनीलकण्ठाचार्येण त्रिस्कन्धविद्यापारदृश्वना षड्दर्शनीपारङ्गतेनाश्वलायनसूत्रेण गर्गगोत्रेण शिवकलसन्द(शान्धि)जातेन गोलचूडामणिनास्मदनुग्रहार्थे सुन्दरराजप्रश्नोत्तराख्ये ग्रन्थे प्रतिपादितव्यम् । तेन गतियोगेनैव विभज्य स्थितिदलं ज्ञेयम् । षष्ठाध्यायप्रथमेयं(?) द्वितीयाध्याये प्रायेणोक्तमिति न पुनरिदानी व्याख्यातं प्रक्षिप्तत्वाच्च । अस्याध्यायस्य पञ्चमाध्यायेऽपि बहवः End: For Private and Personal Use Only
SR No.020209
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 24
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages504
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy