________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8971
दंशपैतिकत्वग्दोषाश्वयथुद्रौणिकास्तथा । मुखजा द्रौणिका हिक्का श्वासाचैव तु वाजिनाम् ॥ अतिसाराः कोष्ठराजिशिरोरोगाश्च लिङ्गगाम् (:) । पादरोगाश्च वाहानां प्रकुश्चकप्रकोटकौ ॥ उलूकपादिस्तानरुक् गुदभ्रंशस्तथैव च । भाराभिषण्णदोषाश्च योकाभित्ताप एव च ॥ अभितापो रक्तपित्तं विद्युरिक्षप्तस्तथैव च । अग्निदग्धचिकित्सा च ज्वराणां च चिकित्सितम् ॥ शिवाणिकचिकित्सा च प्रावारकचिकित्सितम् । प्रतितूर्णस्तथाण्डाक्षो बुहुदः काच एव च ॥ पटलश्च परिमावि स्वच्छन्दश्चैव वाजिनाम् । नायं प्रेक्षितयः प्रोक्तो नेत्राभिष्यन्द एव च ॥ मुञ्जश्च मुअजालश्च नेत्ररोगाः प्रकीर्तिताः । द्विवणीया च नाडी च पुण्डरीकग्रहस्तथा ॥ अर्बुदनाल्पविज्ञानं नष्टशल्मस्तथैव च । भमलक्षणमश्वानां भनस्य च चिकित्सितम् ।। विषतन्त्रं च वाहानां तथैव च रसायनम् । वाजीकरणसूत्रं च ग्रहा अप्येकविंशतिः ॥ एवं चिकित्सितं प्रोक्तं रहस्यमधुना शृणु । प्रत्याख्यानीयनामानि स्पष्टस्यारिष्टमेव च ॥ उपसर्गतिर्यस्तु शास्त्रसङ्ग्रहसंज्ञितम् । रहस्यस्थानमित्येतत् षष्ठं सम्परिकीर्तितम् ॥ एवं षडेव स्थानानि सम्प्रवक्ष्याम्यतः परम् । लक्षणं प्रकृतीनां तु चातुर्वर्ण्य तथैव च ॥ आयुर्ज्ञानं प्रोथरेखासम्भवः सारलक्षणम् । अनूकलक्षणं चैकशरीरस्य च लक्षणम् ॥ विकृता(विकृतं) मिश्रं . . . शेषलक्षणम् । गर्भसम्भवविज्ञानं शरीरनिचयस्तथा ॥ सूतिकोपक्रमं चैव तुलामानं शरीरजम् ।। प्रजार्थोद्देशविज्ञानं द्रिष्योपक्रम (१) एव च ॥
For Private and Personal Use Only