________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8970
A DESORIPTIVE OATALOGUE OF
शाला षड्तुकं देशाः कल्पस्कलवणस्य च । परिचर्या तुरङ्गाणां सस्यानां च विधिस्तथा ।। विनिश्चयो रसानां च र(स)वीर्यविनिश्चयः । द्रव्याणां गुणदोषाश्च खादनानि तथैव च ॥ दशमूलविधिश्चैव रसव्याकरणं स्मृतम् । कल्पसूत्रं मेहकल्पं तथैव कटुपिण्डिका ॥ . प्रतिपानविधिश्चैव भोजनानां विधिस्तथा । स्वेदानामक्षिरोगाणां कल्पौ (तु) समुदाहृतम् !! क्षीरवस्तिश्च वाहानामत्तरो विस्तरेऽपि च । वस्तिनिरोहकल्पश्च कल्पसूत्रं प्रकीर्तितम् ॥ वायोर्निदानं प्रथमं पित्तस्य च कफस्य च । रक्तस्यैव तु वाहानां निदानं परिकीर्तितम् ।। वातपित्तकफानां च रक्तस्य च समासतः । साधारणी क्रिया प्रोक्तावर्तानां च चिकित्सितम् ॥ विविधं चोविर्तश्च क्रियावातिसारिणः । चिकित्सा मूत्ररोगाणां स्तम्भानां च चिकित्सितम् ।। एकाङ्गरोगस्य तथा मुखरोगचिकित्सितम् । कासानां च चिकित्सोक्ता स्नेहस्य लवणस्य च । धान्यस्य च सुरायाश्च क्षीरस्य सलिलस्य च । नाड्याश्च व्यापदासप्तक्रिमिक्रोष्टुचिकित्सितम् ॥ विदुरग्रहरूपं च हृद्रोगश्च निराणुकः । अञ्जलीकारिका चैव कर्णरोगचिकित्सितम् ॥ अश्रुपातचिकित्सिा च तथापातबलासकः । आमण्डकस्तथोनीतः अण्डस्कन्नचिकित्सितम् ।। अण्डचालिचिकित्सा च पीताण्डस्य चिकित्सितम् । रक्ताण्डस्य कफाण्डस्य पूयाण्डस्य चिकित्सितम् ॥ अर्शस्या . . काराणां वालादकचिकित्सितम् । उदराणां तथाष्टानां प्रस्कन्दस्य चिकित्सितम् ॥ अनुस्कन्दचिकित्सा च रात्रिवातचिकित्सितम् । कुष्ठानां चैव दद्रूणां पामायाश्च चिकित्सितम् ॥
For Private and Personal Use Only